वांछित मन्त्र चुनें
आर्चिक को चुनें

अ꣢प꣣ त्यं꣡ वृ꣢जि꣣न꣢ꣳ रि꣣पु꣢ꣳ स्ते꣣न꣡म꣢ग्ने दुरा꣣꣬ध्य꣢꣯म् । द꣡वि꣢ष्ठमस्य सत्पते कृ꣣धी꣢ सु꣣ग꣢म् ॥१०५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

अप त्यं वृजिनꣳ रिपुꣳ स्तेनमग्ने दुराध्यम् । दविष्ठमस्य सत्पते कृधी सुगम् ॥१०५॥

मन्त्र उच्चारण
पद पाठ

अ꣡प꣢꣯ । त्यम् । वृ꣣जिन꣢म् । रि꣣पु꣢म् । स्ते꣣न꣢म् । अ꣣ग्ने । दुराध्य꣢꣯म् । दुः꣣ । आ꣡ध्य꣢꣯म् । द꣡वि꣢꣯ष्ठम् । अ꣣स्य । सत्पते । सत् । पते । कृधि꣢ । सु꣣ग꣢म् । सु꣣ । ग꣢म् ॥१०५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 105 | (कौथोम) 2 » 1 » 1 » 9 | (रानायाणीय) 1 » 11 » 9


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में रिपुओं को दूर करने की प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (सत्पते) सज्जनों के पालनकर्ता (अग्ने) पराक्रमशाली परमात्मन्, विद्वान् जन अथवा राजन् ! आप (त्यम्) उस (वृजिनम्) छोड़ने योग्य पाप को, (रिपुम्) कामक्रोधादि षड्रिपुवर्ग को, अथवा बाह्य शत्रु को, (स्तेनम्) चोर को, और (दुर्-आध्यम्) बुरा चिन्तन करनेवाले द्वेषी को (दविष्ठम्) दूर से दूर (अप अस्य) फेंक दीजिए ॥९॥ इस मन्त्र में अर्थश्लेष अलङ्कार है ॥९॥

भावार्थभाषाः -

पाप विचार या पापीजन, काम-क्रोध आदि आन्तरिक रिपु या बाह्य शत्रु, चोरी के विचार या चोर लोग, दुश्चिन्ताएँ या दुश्चिन्तनकारी मनुष्य, जो भी हम पर आक्रमण करते हैं, उन्हें हम परमात्मा, विद्वान् लोगों और राजा की सहायता से दूर कर दें। सद्विचार और सद्विचारशील लोग सहयोगी बनकर हमारे साथ विचरें ॥९॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ रिपूनपनेतुं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (सत्पते) सतां पालयितः (अग्ने) पराक्रमशालिन् परमात्मन्, विद्वन्, राजन् वा ! त्वम् (त्यम्) तम् (वृजिनम्) वर्जनीयं पापम्। वृजी वर्जने। वृजिनानि वर्जनीयानि इति निरुक्तम् १०।४१। (रिपुम्) कामक्रोधादिषड्रिपुवर्गम्, बाह्यं शत्रुं वा, (स्तेनम्) चौरम्, (दुर्-आध्यम्२) दुष्टचिन्तनपरायणं द्वेषिणं च। दुर्-आ-ध्यै चिन्तायाम्। (दविष्ठम्) दूरतमं यथा स्यात् तथा। अतिशयेन दूरं दविष्ठम्। दूरशब्दाद् इष्ठनि स्थूलदूर० अ० ६।४।१५६ इति यणादिपरस्य लोपः, पूर्वस्य गुणः। (अप अस्य३) अप क्षिप। असु क्षेपणे, दिवादिः, लोटि मध्यमैकवचने रूपम्। अस्माकं कृते (सुगम्४) सुगम्यं सन्मार्गं च। ‘सुदुरोरधिकरणे।’ अ० ३।२।४८ वा० इत्यनेन अधिकरणेऽर्थे गम् धातोर्डः प्रत्ययः। (कृधी) कुरु, प्रकाशय इत्यर्थः। कुरु इति प्राप्ते श्रुशृणुपॄकृवृभ्यश्छन्दसि। अ० ६।४।१०२ इति हेर्धिः। अन्येषामपि दृश्यते।’ अ० ६।३।१३७ इति दीर्घः ॥९॥५ अत्र अर्थश्लेषालङ्कारः ॥९॥

भावार्थभाषाः -

पापविचाराः पापिनो जना वा, कामक्रोधाद्या आभ्यन्तरा रिपवो बाह्याः शत्रवो वा, स्तेयविचाराः स्तेना वा, दुश्चिन्तनानि दुश्चिन्तनकारिणो वा येऽप्यस्मानाक्रामन्ति तान् वयं परमात्मनो विद्वज्जनानां नृपतेश्च साहाय्येन दूरं प्रक्षिपेम। सद्विचाराः सद्विचारशीला जनाश्च सहयोगिनो भूत्वाऽस्माभिः सार्धं विचरन्तु ॥९॥

टिप्पणी: १. ऋ० ६।५१।१३ २. दुराध्यं कुत्सितम् आभिमुख्येन ध्यानं यस्य स दुराध्यः तं कुत्सितध्यानम् पापसंकल्पमित्यर्थः—इति वि०। ३. विवरणकारस्तु अस्य इति नामपदमाह—अस्य च रिपोः स्तेनस्य च इति। तत्तु न विचारसहं, स्वरविरोधात्। अपास्य अपक्षिप—इति भ०, सा०। ४. सुगं सुखेन गम्यं पन्थानम्—इति भ०। ५. ऋग्भाष्ये दयानन्दर्षिणा मन्त्रोऽयं विद्वत्पक्षे व्याख्यातः।